हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...

Srimad Bhagavad Gita – श्रीमद्भगवद्गीता  
 स्तोत्रम् - Stotras Srimad Bhagavad Gita – श्रीमद्भगवद्गीता Valmiki Ramayanam in Sanskrit – वाल्मीकि रामायणम्

Bhrigu Kruta Sri Dattatreya Stotram – श्री दत्तात्रेय स्तोत्रम् (भृगु कृतम्)


बालार्कप्रभमिन्द्रनीलजटिलं भस्माङ्गरागोज्ज्वलं
शान्तं नादविलीनचित्तपवनं शार्दूलचर्माम्बरम् ।
ब्रह्मज्ञैः सनकादिभिः परिवृतं सिद्धैः समाराधितं
आत्रेयं समुपास्महे हृदि मुदा ध्येयं सदा योगिभिः ॥ १ ॥

दिगम्बरं भस्मविलेपिताङ्गं
चक्रं त्रिशूलं डमरुं गदां च ।
पद्मासनस्थं शशिसूर्यनेत्रं
दत्तात्रेयं ध्येयमभीष्टसिद्ध्यै ॥ २ ॥

ओं नमः श्रीगुरुं दत्तं दत्तदेवं जगद्गुरुम् ।
निष्कलं निर्गुणं वन्दे दत्तात्रेयं नमाम्यहम् ॥ ३ ॥

ब्रह्म लोकेश भूतेश शङ्खचक्रगदाधरम् ।
पाणिपात्रधरं देवं दत्तात्रेयं नमाम्यहम् ॥ ४ ॥

सुरेशवन्दितं देवं त्रैलोक्य लोकवन्दितम् ।
हरिहरात्मकं देवं दत्तात्रेयं नमाम्यहम् ॥ ५ ॥

निर्मलं नीलवर्णं च सुन्दरं श्यामशोभितम् ।
सुलोचनं विशालाक्षं दत्तात्रेयं नमाम्यहम् ॥ ६ ॥

त्रिशूलं डमरुं मालां जटामुकुटमण्डितम् ।
मण्डितं कुण्डलं कर्णे दत्तात्रेयं नमाम्यहम् ॥ ७ ॥

विभूतिभूषितदेहं हारकेयूरशोभितम् ।
अनन्तप्रणवाकारं दत्तात्रेयं नमाम्यहम् ॥ ८ ॥

प्रसन्नवदनं देवं भुक्तिमुक्तिप्रदायकम् ।
जनार्दनं जगत्त्राणं दत्तात्रेयं नमाम्यहम् ॥ ९ ॥

राजराजं मिताचारं कार्तवीर्यवरप्रदम् ।
सुभद्रं भद्रकल्याणं दत्तात्रेयं नमाम्यहम् ॥ १० ॥

अनसूयाप्रियकरं अत्रिपुत्रं सुरेश्वरम् ।
विख्यातयोगिनां मोक्षं दत्तात्रेयं नमाम्यहम् ॥ ११ ॥

दिगम्बरतनुं श्रेष्ठं ब्रह्मचर्यव्रते स्थितम् ।
हंसं हंसात्मकं नित्यं दत्तात्रेयं नमाम्यहम् ॥ १२ ॥

कदा योगी कदा भोगी बाललीलाविनोदकः ।
दशनैः रत्नसङ्काशैः दत्तात्रेयं नमाम्यहम् ॥ १३ ॥

भूतबाधा भवत्रासः ग्रहपीडा तथैव च ।
दरिद्रव्यसनध्वंसी दत्तात्रेयं नमाम्यहम् ॥ १४ ॥

चतुर्दश्यां बुधे वारे जन्ममार्गशिरे शुभे ।
तारकं विपुलं वन्दे दत्तात्रेयं नमाम्यहम् ॥ १५ ॥

रक्तोत्पलदलपादं सर्वतीर्थसमुद्भवम् ।
वन्दितं योगिभिः सर्वैः दत्तात्रेयं नमाम्यहम् ॥ १६ ॥

ज्ञानदाता प्रभुः साक्षाद्गतिर्मोक्षप्रदायकः ।
आत्मभूरीश्वरः कृष्णः दत्तात्रेयं नमाम्यहम् ॥ १७ ॥

भृगुविरचितमिदं दत्तपारायणान्वितम् ।
साक्षाद्दद्यात्स्वयं ब्रह्मा दत्तात्रेयं नमाम्यहम् ॥ १८ ॥

प्राणिनां सर्वजन्तूनां कर्मपाशप्रभञ्जनम् ।
दत्तात्रेयगुरुस्तोत्रं सर्वान् कामानवाप्नुयात् ॥ १९ ॥

अपुत्रो लभते पुत्रं धनधान्यसमन्वितः ।
राजमान्यो भवेल्लक्ष्मीमप्राप्यं प्राप्नुयान्नरः ॥ २० ॥

त्रिसन्ध्यं जपमानस्तु दत्तात्रेयस्तुतिं सदा ।
तस्य रोगभयं नास्ति दीर्घायुर्विजयी भवेत् ॥ २१ ॥

कूष्माण्डडाकिनीपक्षपिशाचब्रह्मराक्षसाः ।
स्तोत्रस्य श्रुतमात्रेण गच्छन्त्यत्र न संशयः ॥ २२ ॥

एतद्विंशतिश्लोकानामावृत्तिं कुरु विंशतिम् ।
तस्यावृत्तिसहस्रेण दर्शनं नात्र संशयः ॥ २३ ॥

इति श्रीभृगुविरचितं श्री दत्तात्रेय स्तोत्रम् ॥


Guru Stotras – श्री गुरु स्तोत्राणि

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.